आ मा यन्तु ब्रह्मचारिणः......।

रामटेकं प्रसिद्धमैतिहासिकं क्षेत्रं यत्र स्थित्वा कविकुलगुरुः कालिदासः वर्षभोग्येण वासेन मेघसन्देशं रचयामास। अधुना च प्रसिद्धं भजते क्षेत्रमिदं कालिदासनाम्ना प्रतिष्ठापितेन संस्कृतविश्वविद्यालयेन। रामगिरेः शिखरे रमणीयं राममन्दिरं, तत्रैव प्रान्तभागे कालिदासस्मारकं, तटवर्तिनि प्रदेशे विसृतं रामटेकनगरं, नातिदूरे खिण्डसी जलाशयः, पर्वतान्तरे विलसत् नागार्जुनमन्दिरं तदेतत् रामटेकपरिसरस्य हृद्यं दृश्यम्। परिसरेस्मिन् महाराष्ट्राणां स्वाभिमानचिह्नरूपेण विराजते कविकुलगुरुकालिदासविश्वविद्यालयशैक्षिकपरिसरः। केन्द्रप्रशासनकार्यालयश्च। ऐषमः वर्षे शास्त्रशिक्षणदिशायां नैके कार्यक्रमोपक्रमाः संकल्पिताः। तरुणेभ्यः शास्त्राध्ययनसमुत्सुकेभ्यःछात्रेभ्यः स्वागतं व्याहर्तुं सोत्कण्ठं निरीक्षते कालं अध्यापकगणः कर्मयोगिसहयोगिभिः सार्धम्। हार्दं स्वागतं सर्वेभ्यः!